सायणाचार्यव्याख्यातं ब्रह्मस्वरूपलक्षणम्
DOI:
https://doi.org/10.7492/njf4qk28Abstract
ईशाद्यष्टोत्तरोपनिषत्सु अन्यतमा तथा अद्वैतवेदान्तसम्मतयोः ब्रह्मस्वरूपतटस्थलक्षणयोः प्रतिपादकत्वेन च विश्रुता अस्ति तैत्तिरीयोपनिषत्। इयं कृष्णयजुर्वेदस्य तैत्तिरीयशाखासंबन्धिनी अस्ति। तथा हि ‘सत्यं ज्ञानमनन्तं ब्रह्म’ इति अस्याः उपनिषदः द्वितीयवल्ल्यां[1] तथा ‘यतो वा इमानि भूतानि जायन्ते येन जातानि जीवन्ति, यत्प्रयन्ति अभिसंविशन्ति तद्विजिज्ञासस्व तद्ब्रह्म’ इति तृतीयवल्ल्यां[2] चोपदिष्टे। स्वरूपलक्षणमुक्त्वा तन्निर्दिधारयिषया अन्नमयादिकोशान् आनन्दमयपर्यन्तान् प्रदर्श्य सर्वस्यापि आनन्दस्य प्रतिष्ठात्वेन निर्दिष्टं ब्रह्म – ‘ब्रह्म पुच्छं प्रतिष्ठा’[3] इति। यतो वेत्यादिवाक्यैः तद्विजिज्ञास्यत्वं प्रतिज्ञाय ‘आनन्दाद्ध्येव खल्विमानि भूतानि जायन्ते आनन्देन जातानि जीवन्ति आनन्दं प्रयन्ति अभिसंविशन्ति, आनन्दं ब्रह्मेति व्यजानात्’[4] इति च आनन्दात्मकब्रह्मणः जगदुत्पत्तिस्थिलयकारणत्वं प्रदर्शितम्। तदेवं ब्रह्मस्वरूपतटस्थलक्षणयोः प्रतिपादकत्वेन तथा वेदान्तशास्त्रोक्तपञ्चकोशपञ्चभूतोत्पत्त्यादिविषयाणां साक्षात् प्रदर्शनेन, शारीरकमीमांसायां भिन्नाधिकरणेषु विचारितवाक्यानाम् आलम्बनत्वेन च अस्याः उपनिषदः वैशिषष्ट्यं सुस्पष्टमेव। सेयमुपनिषत् तैत्तिरीयारण्यकस्य सप्तमाष्टमनवमप्रपाठकाः तैत्तिरीयोपनिषदिति ख्याता अस्ति दशमश्चानुवाकः महानारयणोपनिषदिति च कथ्यते शाङ्करभाष्यसम्प्रदायानुसारम्।
[1] तैत्तिरीयोपनिषत् 2-1
[2] तैत्तिरीयोपनिषत् 3-
[3] तैत्तिरीयोपनिषत् 2-5
[4] तैत्तिरीयोपनिषत् 3-1