प्रेमनिवेदनम्” इति विषये कालिदासस्य भावना इत्येकम् अध्ययनम्

Authors

  • Munmun Maity Author

DOI:

https://doi.org/10.7492/9mdv7b71

Abstract

ध्रुपदीसंस्कृतसाहित्यस्य एकः विशिष्टः कविः नाट्यकारः चास्ति महाकविः कालिदासः। भारतस्य प्राचीनकवेः वेदव्यासात् वाल्मीकेः च परमेव तस्य नाम जनसमाजे उच्चारितो भवति। यद्यपि महाकविरूपेण सुप्रसिद्धः तथापि नाट्यरचनायामपि स उत्कृष्टः आसीत्। कालिदासस्य कृतिषु प्रेम्णः महानुभवत्वं काव्यानां नाटकानां च सुमधुरत्वं सम्पादयति। चरित्रनिर्माणे नायकनायिकाभ्यां सात्त्विकप्रेमिकप्रेमिकयोः जीवद्रूपं दत्तम्। ‘अभिज्ञानशाकुन्तलम्’, ‘विक्रमोर्वशीयम्’ इति नाटकयोः दृश्यते तत्र प्रेमनिवेदनाय पत्रमाध्यमं चितवान् इति, अथवा ‘मेघदूत’काव्ये लक्ष्यते तत्र वर्षायाः एकमेव मेघखण्डं प्रेमदूतरूपेण कुशलवार्तामाध्यमेन प्रेम निवेदयति। कविकल्पनायां मेघः अपि एकः मनुष्यशरीररूपः जीवस्वरूपः इव भवति। सः आनन्दं, दुःखं, कष्टं चेति सर्वम् अनुभवितुं शक्नोति।

 

Published

2012-2024

Issue

Section

Articles

How to Cite

प्रेमनिवेदनम्” इति विषये कालिदासस्य भावना इत्येकम् अध्ययनम्. (2024). Ajasraa ISSN 2278-3741, 13(7), 177-185. https://doi.org/10.7492/9mdv7b71

Share