नारायणीयग्रन्थदृशा नवधाभक्तिविवेचनम्
DOI:
https://doi.org/10.7492/ttqd4p24Abstract
सुरसारस्वतसार-रसासारास्वादनसततसमुत्सुकासारसंसारैकतरणसारभूतं भवति श्रीमन्नारायणीयं स्तोत्रकाव्यरत्नमिति भक्तितत्त्वज्ञास्सहृदया विदन्त्येवमनिशं मुदा।अशेषजनगणविदितमेतत्- वेदवेदान्तवेद्यपुराणेतिहासस्तुतितोष्टूयमानस्य श्रीमन्नारायणस्वामिप्रभावमधिकृत्य वर्णितत्त्वात् केरलेषु लब्धजन्मनाशुकविवरेण मेल्पुत्तूर् श्रीमन्नारायणभट्टपादेन विरचितत्त्वात् श्रीमन्नारायणीयं -इत्याख्यं स्तोत्रकाव्यम् सभक्तिश्रद्धमनवरतं परायणं विदधतां सकलजनानामायुरारोग्यं वितीर्य पापसञ्चयं स्वमहिमलीलयैव सञ्जरीहर्ति इति।श्रीनारायणभट्टपादाः श्रीमद्भागवतपुराणविषयादिकं साराम्शतया १०३६श्लोकेषु विभिन्नवृत्तादिकमुपयुज्य श्रूगुरुपवनपुरेशं समुपवर्णयन्ति।
Published
2012-2024
Issue
Section
Articles
How to Cite
नारायणीयग्रन्थदृशा नवधाभक्तिविवेचनम् . (2024). Ajasraa ISSN 2278-3741 UGC CARE 1, 13(11), 39-43. https://doi.org/10.7492/ttqd4p24