शङ्करनाम्ना प्रसिद्धानां स्तोत्राणाम् तत्कर्तृत्वसमीक्षणम्
DOI:
https://doi.org/10.7492/4322cw71Abstract
अद्वैतवेदान्तपरमाचार्यस्य आद्यशङ्कराचार्यस्य नेकासु कृतिषु सहृदयाह्लादकारिणी कृतिः स्तोत्रावलिः। सुललिलच्छन्दसा अलङ्कारमाधुर्येण अर्थगाम्भीर्येण च समेता सा आवलिः विद्वन्मनसि मोदं समुत्पादयत्येव। अपि च, ब्रह्मसूत्रभाष्यादिषु प्रतिपादितम् अद्वैततत्त्वं सरलगिरा वेदान्तमूलकस्तोत्रेषु आचार्यः प्रकटीचकार। अत्र प्रबन्धे शाङ्करस्तोत्रविषये एव चिन्तनं विहितम्।
शङ्करनाम्ना प्रसिद्धानि स्तोत्राणि प्रायः समेषामेव मनसि आद्यशङ्करकर्तृत्वे सन्देहं जनयन्ति। न हि लोके केनचित् द्वात्रिंशवर्षेषु एतावन्ति प्रस्थानत्रयभाष्यादीनि कृतानीति दृष्टम्। आचार्यस्य प्रस्थानत्रयकर्तृत्वे असन्दिहानेष्वपि विद्वत्सु स्तोत्रेषु विवदन्ते। तत्र स्वीययुक्त्यनुगुणं विद्वांसः समेषां स्तोत्राणाम् आद्यशङ्करकर्तृत्वं निराकुर्वन्ति। किन्तु आचार्यस्य शैल्यादिपरिशीलनेन अचिन्त्यशक्त्याधारतया च एतादृशकार्यकरणम् असम्भवीति न प्रतिभाति। लौकिकेषु जनेषु बहुकार्यकरणसामर्थ्ये दृष्टे का कथा तादृशस्य भगवदवतारस्य शङ्कराचार्यस्य।