महाभारते व्यासकृतप्रयोगोपलक्ष्य किञ्चित्स्थलेषु प्रदत्तभारतकौमुदीटीकाकृन्मतपरिष्करणपुरःसरं शब्दशास्त्रानुसारं तन्मतापकरणम्
DOI:
https://doi.org/10.7492/fk2d2q12Abstract
व्यासकृतं सहस्रश्लोकात्मकं महाकाव्यमेव महाभारतपदेन परामृष्टम्। मूर्धन्यभूतशास्त्रेषु महाभारतस्य परिगणनात्, पुनश्च नापदं शास्त्रे प्रयुञ्जीत इति न्यायेन शास्त्रेषु पदानि एव प्रयोक्तव्यानि इति धिया महाभारतेऽपि सुप्तिङन्तभूतानि पदानि एव महाभारतकृता व्यासेन प्रयुक्तानि। तथापि क्वचित्संशीतिः समुत्पद्यते। सा किंविषयिणीति जिज्ञासायामुच्यते – पदत्वविषयिणी। अत एव तादृक्सन्दिग्धभूतप्रयोगाणां शब्दशास्त्रदिशा पदत्वयोग्यता अस्ति न वेत्यस्मिन् विषये एव विचारः प्रस्तूयते। वस्तुत एतादृक्प्रयोगोपलक्ष्य यत्र सन्देहो जायते तत्रैव टीकाकारैस्तत्रभवद्भिर्हरिदाससिद्धान्तवागीशैः स्वप्रणीतटीकायां भारतकौमुद्यामयं प्रयोगः आर्ष इत्थं समुल्लिख्य व्याख्यायते स्म। अत एव टीकाकृद्भिस्तादृक्प्रयोगाणामार्षत्वेन व्याख्याय साधुत्वञ्च निरूपितम्।