प्रथमाविभक्त्यर्थविचारः

Authors

  • Dr. SOUMYA N K Author

DOI:

https://doi.org/10.7492/rzk9v055

Abstract

   प्रथमादिसप्तविभक्तीनां अर्थविशेषव्यवस्थां दर्शयितुं कारकप्रकरणं प्रारब्धम्। तत्र प्रथमायाः अर्थविशेषान् प्रतिपादयितुं सूत्रं कृतं पाणिनिना “प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमा” (P.2.3.46) इति। अस्मिन् सूत्रे मात्रशब्दस्य वचनशब्देनैव अन्वयभ्रमं वारयितुं उक्तं मात्रशब्दस्य सर्वत्रान्वयः इति। तस्य द्वन्द्वान्ते श्रूयमाणत्वात् प्रत्येकमन्वयः। द्वन्द्वान्ते श्रूयमाणं पदं प्रत्येकमभिसंबध्यते इति नियमेन। तथा च प्रातिपदिकार्थमात्रे, लिङ्गमात्राधिक्ये परिमाणमात्रे वचनमात्रे च प्रथमा स्यात् इति अर्थः। मात्रशब्दस्य अन्ययोगव्यवच्छेदः अर्थः। अन्यत् नाम भेदवत्, अन्यस्य योगः अन्ययोगः। योगो नाम सम्बन्धः। व्यवच्छेदो नाम अभावः, तथा च भेदवत्सम्बन्धाभावः अर्थः। भेदे प्रतियोगिकत्वसम्बन्धेन प्रातिपदिकार्थस्य अन्वयः। एवमेव लिङ्गपरिमाणवचनानामपि अन्वयः। सूत्रे प्रातिपदिकग्रहणं किमर्थमिति शङ्का वर्तते। “ङ्याप्प्रातिपदिकात्” (4.1.1) इति सूत्रेण ङ्यन्तादाबन्तात् प्रातिपदिकात् विहितानां स्वादीनां प्रकरणमिदं नियमार्थमित्यतः अन्तरेणापि प्रातिपदिकग्रहणं प्रातिपदिकार्थे एव प्रथमा भविष्यति इति। किन्तु असति प्रातिपदिकग्रहणे अव्ययात् प्रथमा न स्यात्। “बहुषु बहुवचनं” (1.4.21) इत्यादिना एकवाक्यतायां संख्यायुक्ते एव प्रथमा स्यात्। अव्ययानां लिङ्गसंख्यादयः नास्तीत्यतः तेभ्यः न सिद्ध्यति। अतः उच्चैः, नीचैः इत्याद्यव्ययानामपि प्रथमासिद्ध्यर्थं तद्ग्रहणम्।

Published

2012-2024

Issue

Section

Articles

How to Cite

प्रथमाविभक्त्यर्थविचारः. (2025). Ajasraa ISSN 2278-3741 UGC CARE 1, 14(1), 144-147. https://doi.org/10.7492/rzk9v055

Share