“धनुश्शास्त्रीया चित्रवेधपरम्परा”
DOI:
https://doi.org/10.7492/kx40j894Abstract
धनुर्वेदः प्राचीनभारतस्य आत्मरक्षा तथा युद्धविषयकविद्यायाः प्रतिनिधित्वङ्करोति । |युद्धस्य नीतिशास्त्रम्, सैन्यसञ्चालनम्, सैन्यसंबंधीव्याकरणमादयः बहवः विषयाः शास्त्रेऽस्मिन् प्रतिपादिताः । प्रसिद्धेष्वुपवेदेषु वेदोऽयं यजुर्वेदीयोपवेदोऽस्ति, प्राचीनसमये धनुषः युद्धेषु प्राधान्याद् धनुर्वेदनाम्ना च प्रथितो बभूव । धनुर्वेदसंज्ञया अभिहितेनानेन अन्यानि शास्त्राणि तथैव पाल्यन्ते स्म यथा परिखया उद्यानं पाल्यते । साहित्ये विलुप्ते सति शास्त्रस्यास्य महती क्षति सञ्जाता तद्विषये लोके भ्रान्तयश्च प्रचलिताः अभूवन् । जनैः सामान्तया चिन्तितं यत् धनुषः ज्ञानमेव धनुर्वेदविषयत्वम्, अथ वा शस्त्रास्त्राणां ज्ञानमात्रमेव अनेन दीयते । वर्तमानकाले तु न तान्यस्त्राणि प्रयुज्यन्ते, अतो किमर्थं धनुश्शास्त्रस्य पठनं पाठनञ्च कर्तव्यम् । पत्रेऽस्मिन् अवधीरणैषा प्रतिक्षिप्यते, अथ चोपसंह्रियते यत् अन्येऽपि बहवः लोकोपयोगिनः विषयाः धनुश्शास्त्रे सन्ति येषामुपयोगः युद्धादन्येषु क्षेत्रेषु कर्तुं शक्यते । एतेभ्यः विषयेभ्यः एकोऽस्ति चित्रवेधः, यमधिकृत्य लिखितमिदं पत्रम् ।