हरिनामामृतव्याकरणस्य कारकप्रकरणे कारक-कर्तृ-कर्मसंज्ञानां विमर्शः
DOI:
https://doi.org/10.7492/8x2n3892Abstract
क्रैस्तीये षोडशशतके महाप्रभुश्रीगौराङ्गप्रतिष्ठिते वैष्णवसम्प्रदाये श्रीजीवगोस्वामिप्रणीतं हरिनामामृतव्याकरणं ग्रन्थमणित्वं भजते। अयं व्याकरणग्रन्थः कृष्णभक्तिरसामृताभिसेचनस्य निदर्शनमावहति। इदं व्याकरणं न केवलं संस्कृतभाषायाः व्याकरणमपि तु वैष्णवानां सर्वेषां वा कृते आध्यात्मिकमार्गप्रदर्शकम्, यत्र हरिनाममयेन सूत्रपाठेन मोक्षलाभस्य सोपानमुन्मोचितं भवति। पाणिनीयव्याकरणं कलापव्याकरणञ्चांशिकरूपेणानुसृत्य इदं हरिनामामृतव्याकरणं विरचितम्। इह पाणिनीयप्रत्याहाराः अगृहीताः, किन्तु कलापव्याकरणस्य सिद्धवर्णपाठः हरिनामसम्बलिसूत्रसमूहेषु अनुसृतः। पाणिनीयव्याकरणादिषु आरभ्य क्रैस्तीयचतुर्दशशतकपर्यन्तं विरचितेष्वपाणिनीयव्याकरणादिषु या व्याख्यानशैली परिदृष्टा, ततः अतिशयप्राञ्जलव्याख्यानरीतिः हरिनामामृते वर्तते। अस्मिन् व्याकरणग्रन्थे सूत्राणामाक्षरिकसंक्षेपणाय वैयाकरणानां मात्रालाघवं तिरस्कृतमस्ति। व्याकरणे अस्मिन् महेश्वराद्ब्रह्मणो वा वर्णानामुत्पत्तिरित्यप्रदर्श्य, नारायणादेव वर्णानामुत्पत्तिर्जाता इति कथनेन व्याकरणमारब्धमिति। इदं हरिनामामृतव्याकरणमेवाश्रित्य मयायं प्रबन्धः प्रस्तूयते।