व्यासस्य कल्किपुराणगतेतिहाससामग्र्यः
DOI:
https://doi.org/10.7492/vst6g161Abstract
अतीतसंघटीतघटनावली इतिहासः प्रचक्षते। रामायण-महाभारतौ द्वौ संस्कृतसाहित्यस्य प्रधानेतिहासग्रन्थौ स्तः। महर्षिव्यासविरचितानि पुराणान्यपि इतिहाससंज्ञया विभूषितानि भगवता व्यासेन प्राचीनाचार्यैर्वा। तद्यथाह व्यासदेवेन महाभारते- पुराणमाख्यानं पुराणम् तथा च पद्मपुराणे- पुरार्थेषु आनयतीति पुराणम् इति। सायणाचार्येण भणितम्- पुराणं पुरातनवृत्तान्तकथनरूपमाख्यनम् इति। मधुसूदनसरस्वतीनोक्तम्- विश्वसृष्टेरिताहासः पुराणम् इति। अर्थात् पुराणान्यपि बहुलरूपेण इतिहासग्रन्थाः इति विषये नास्ति कोऽपि सङ्कोचः। पुराणानि महापुराणोपपुराणभेदेन द्विधा विभज्यते। तत्र उपपुराणेष्वन्यतम कल्किपुराणम् इति। परमात्मनः विष्णोः दशवतारेष्वन्तिमस्यावतारस्य परमात्माकल्केः वर्णना प्राप्यते। कलियुगस्यान्तिमे पर्वे भगवान् कल्किः असाधुनां विनाशाय धर्मसंस्थापनाय च धराधामेऽस्मिन् अवतरिष्यति। इत्यनया दृष्ट्या भविष्यतसूचकं पुराणं मन्यते कल्किपुराणमिति। तथाप्यन्यपुराणवदेव पुराणेऽस्मिन्नपि इतिहाससामग्र्यः परिलक्ष्यन्ते।