प्रक्रियाग्रन्थानां परिचयः

Authors

  • Dr T V Girija Author

DOI:

https://doi.org/10.7492/enqj4947

Abstract

व्याकरणग्रन्थरचनापरम्परा वेदकालादारभ्य एव  अस्माकं ज्ञातुं शक्यते। इदानीं  दृश्यमानाः पाणिनीयाष्टाध्याय्याःअर्वाचीनाःकश्चित् व्याकरणग्रन्थाः सन्ति। व्याकरणनियमाः अष्टसु अध्यायेषु एव निश्चितपादेषु निश्चित संख्याकेषु च सूत्रेषु  निबद्धाः आसन्। इदानीं उपलभ्यमानाः प्रक्रियानुसारि व्याकरणानि अनेकानि सन्ति।तानि कातन्त्र- चान्द्र - जैनेन्द्र शाकटायन, सारस्वत हेमचन्द्रादीनि । चान्द्रव्याकरणस्य  प्राक् शर्ववर्मणः  कातन्त्रव्याकरणं विरचितम्। हेमचन्द्रव्याकरणस्य प्राक् एकादशे द्वादशे च शतके प्रकरणपद्धत्यनुसारेण काचित् व्याकरणग्रन्थाःरचिताः अभूवन्। रूपसिद्धिनामक लघुप्रक्रियाग्रन्थः दयापालमुनिना,ततश्च गुणनन्दिनः जैनेन्द्रव्याकरणमनुसृत्य,अनन्तरं शब्दार्णवमाधारीकृत्य अज्ञातेन शब्दार्णव प्रक्रियानामकः ग्रन्थः विरचितः।इदानीन्तनकाले एव बौद्धपण्डितः: धर्मकीर्ति: प्रथमं रुपावतार इति नाम्ना  ग्रन्थस्य रचना कृता । अनन्तरं त्रयोदशे शतके  अनुभूतिस्वरूपनाम्ना आचार्येण सारस्वतप्रक्रिया ,वोपदेवगुरुणा श्री धनेश्वरमिश्रेण च प्रक्रियारत्नमणिःपाणिनीयमपाणीयं च व्याकरणं कृतम्। अनन्तरं पञ्चदश ईशवीयशतके आन्त्रप्रदेशीयाः पाणिनीयव्याकणोपासकःकौण्डिन्यगोत्रे  जातः अनन्ताचार्यस्य नृसिंहपौत्रः श्रीकृष्णाचार्यपुत्रः श्रीरामचन्द्राचार्यः पाणिनीयाष्टाध्यायींमाधारीकृत्य  प्रक्रियाकौमुदी नाम प्रक्रियाग्रन्थः रचितः.।प्रक्रियाकौमुद्यां सकलानि सूत्राणि व्याख्यातानि। व्याकरणपठनजिज्ञासूनां अध्येतृणां आह्लाददायी आसीत् । 

Published

2012-2024

Issue

Section

Articles

How to Cite

प्रक्रियाग्रन्थानां परिचयः. (2024). Ajasraa ISSN 2278-3741 UGC CARE 1, 13(2), 188-194. https://doi.org/10.7492/enqj4947

Share