शुक्लयजुर्वेदीयगौणोपनिषत्सु शिवतत्त्वविमर्शः
DOI:
https://doi.org/10.7492/z56e4388Abstract
भारतबर्षं किल देवभूमिरुच्यते। अस्मिन् देवभूमौ भारतबर्षे नाना देवीदेवतानाम् उपासना अनादिकालत एव प्रचलन्नास्ते। जीवाः संसारे अहोरात्रं मङ्गलेऽमङ्गले कमपि देवं स्मरन्ति। संसारे नानाविधदुःखेन प्रपीडिताः मनुष्याः तेभ्यः तेभ्यः दुःखेभ्यः मुक्तये स्वेष्टदेवम् उपचर्यन्ते। मानवानां देवत्वशक्तिकल्पना मानवकल्याणाय समाजकल्याणसाधनाय च वरीवर्तते।अत एव भारतबर्षे नाना देवीदेवतानां श्रद्धया भक्तिमतामनसा पूजापद्धतिर्हि प्रचलिता भवति। भारते देवतात्रयाणां कल्पना क्रियते। सृष्टिकर्ता ब्रह्मा, पालनकर्ता विष्णुः, संहारकर्ता रुद्रः। संहारकर्ता रुद्रः भारतीयानां निकटं सत्यशिवसुन्दररूपेण युगे युगे पूजितो भवति। सः मङ्गलमयशिवः वैदिककालादारभ्य उपनिषत्साहित्ये श्रद्धया उपवर्णितोऽभवत्। मङ्गलमयशिवस्य स्वरूपं शुक्लयजुर्वेदीयगौणोपनिषत्सु स्थले स्थले समुपवर्णितं स्यात्।